श्रीशुकदेव जी की स्तुति

श्रीशुकदेव जी की स्तुति

 नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधालीलया ।

गृहीशक्तित्रितयाय देहिनामन्तर्भवायानुपलक्ष्यवर्त्मने ॥१ ॥

भूयो नमः सवृजिनच्छिदेऽसतामसम्भबायाखिलसत्त्वमूर्तये ।
पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे ॥२ ॥

नमो नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहुः कुयोगिनाम् ।
निरस्तसाम्यातिशयेन राधसा स्वधामनि बृह्माणि रंस्यते नमः ॥३ ॥

यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदहणम् ।
लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभ्रदश्रवसे नमो नमः ॥४ ॥

विचक्षणा यच्चरणोपसादनात् सङ्गं व्युदस्योभयतोऽन्तरात्मनः ।
विन्दन्ति हि ब्रह्मगतिं गलक्लमास्तस्मै सुभद्रश्रवसे नमो नमः ॥५ ॥

तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः ।
क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः ॥६ ॥

किरातहूणान्ध्रापुलिन्दपुल्कसा आभीरकङ्का यवनाः खसादयः ।
येऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥७ ॥

स एष आत्माऽऽत्मवतामधीश्वरस्त्रयीमयो धर्ममयस्तपोमयः ।
गतव्यलीकैरजशंकरादिभिर्वितय॑लिंगो भगवान् प्रसीदताम् ॥८ ॥

श्रियः पतिर्यज्ञपतिः प्रजापतिर्धियां पतिर्लोकपतिर्धरापतिः ।
पतिर्गतिश्चान्धकवृष्णिसात्वंता प्रसीदतां मे भगवान् सतां पतिः॥९॥

यदंघ्रयनुध्यानसमाधिधौतया धियानुपश्यन्ति हि तत्त्वमात्मन्ः ।
वदन्ति चैतत्कवयो यथारुचं स मे मुकुन्दो भगवान् प्रसीदतम् ॥१० ॥

प्रचोदिता येन पुरा सरस्वती वितन्वताजस्य सतीं स्मृतिं हृदि ।
स्वलक्षणा प्रादुरभूत्किलास्यतः स मे ऋषीणामृषभः प्रसीदताम् ॥११ ॥

भूतैर्महभिर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पुरुषः ।
भुंक्ते गुणन् षोडश षोडशात्मकः सोऽलंकृषीष्ट भगवान् वचांसि मे ॥१२ ॥

नमस्तस्मै भगवते व्यासायामिततेजसे ।
पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम् ॥१३ ॥

एतदेवात्मभू राजन् नारदाय विपृच्छते ।
वेदगर्भोऽभ्यधात् साक्षाद् यदाह हरिरात्मनः ॥१४ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे चतुर्थोऽध्यायः ।

जय श्री राधे कृष्ण । श्री कृष्णाय समर्पणं




Previous Post
Next Post

post written by:

0 Comments: