मंगलाचरण

मंगलाचरण

 सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे । तापत्रयविनाशय श्रीकृष्णाय वयं नुमः ॥१ ॥

यं प्रव्रजन्तमनुपेतमपेतकृत्यं, द्वैपायनो विरहकातर आजुहाव ।
पुत्रेति तन्मयतया तरवोऽभिनेदुस्तं , सर्वभूतहृदयं मुनिमानतोऽस्मिा ॥२ ॥

निगमकल्पतरोर्गलितं फलं , शुकमुखदमृतद्रवसयुतम् ।
पिबत भागवतं रसमालयं , मुहुरहो रसिका भुवि भावुकाः ॥३ ॥

यः स्वानुभवखिलश्रुतिसारमेक , मध्यात्मदीपमतितितीर्षतां तमोऽन्धम् ।
संसारिणां करुणयाऽऽह पुराणगुह्यं , तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥४ ॥

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् , देवी सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥५ ॥

बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं , बिभ्रदं वास : कनककपिशं वैजयन्ती च मालाम् ।
रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दै , वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकार्तिः ॥६ ॥

श्यामं हिरण्यपरिधिं वनमाल्यबर्ह , धातुप्रवालनटवेषमनुव्रतांसे ।
विन्यस्तहस्तमितरेण धुनानमब्जं , कर्णोत्पलालककपोलमुबाब्जहासम्।।७ ।।

ध्येयं सदा परिभवनमभीष्टदोहं , तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं , वन्दे महापुरुष ते चरणारविन्दम् ॥८ ॥

त्यक्त्वा सुदस्त्यजसुरेप्सितराज्यलक्ष्मी , धर्मिष्ठ आर्यवचसा यदगादरण्यम् ।
मायामृगं दयितयेप्सितमन्वधावद् , वन्दे महापुरुष ते चरणारविन्दम् ॥५ ॥

जय श्री राधे कृष्ण । श्री कृष्णाय समर्पणं



Previous Post
Next Post

post written by:

1 comment:

Share your thoughts on Lord Krishna. Join the discussion! 🕉️💬🙏