
कृष्ण प्रेममयी राधा राधा प्रेममयो हरिः जीवने निधने नित्यं राधाकृष्णौ गतिर्मम
published on 31 August
leave a reply
कृष्ण प्रेममयी राधा राधा प्रेममयो हरिः
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ||
कृष्णस्य द्रविणं राधा राधाया द्रविणं हरिः
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ||1||
कृष्ण द्रवमयी राधा राधा द्रवमयो हरिः
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ||2||
कृष्ण रसमयी राधा राधा रसमयो हरिः
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ||3||
कृष्ण गेहेस्थिता राधा राधा गेहेस्थितो हरिः
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ||4||
कृष्ण चित्तस्थिता राधा राधा चित्तस्थितो हरिः
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ||5||
नीलाम्बराधारा राधा पीताम्बर धरो हरिः
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ||6||
वृन्दावनेश्वरी राधा कृष्णौ वृन्दावनेशवरः
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ||7||
''जय श्री राधे कृष्णा ''
0 Comments: