नन्दकुमाराष्टकंसुन्दर गोपालं उरवनमालं नयन विशालं दुःख हरं,वृन्दावन चन्द्रं आनंदकंदं परमानन्दं

 नन्दकुमाराष्टकंसुन्दर गोपालं उरवनमालं नयन विशालं दुःख हरं,वृन्दावन चन्द्रं आनंदकंदं परमानन्दं






 नन्दकुमाराष्टकं



सुन्दर गोपालं उरवनमालं नयन विशालं दुःख हरं,
वृन्दावन चन्द्रं आनंदकंदं परमानन्दं धरणिधरं ।
वल्लभ घनश्यामं पूरण कामं अत्यभिरामं प्रीतिकरं,
भज नंदकुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥१॥



सुन्दरवारिज वदनं निर्जितमदनं आनन्दसदनं मुकुटधरं,
गुंजाकृतिहारं विपिनविहारं परमोदारं चीरहरम ।
वल्लभ पटपीतं कृतउपवीतं करनवनीतं विबुधवरं,
भज नंदकुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥२॥



शोभित मुख धूलं यमुना कूलं निपट अतूलं सुखदतरं,
मुख मण्डित रेणुं चारित धेनुं बाजित वेणुं मधुर सुरम ।
वल्लभ अति विमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं,
भज नंदकुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥३॥



शिर मुकुट सुदेशं कुंचित केशं नटवरवेशं कामवरं,
मायाकृतमनुजं हलधर अनुजं प्रतिहदनुजं भारहरम ।
वल्लभ व्रजपालं सुभग सुचालं हित अनुकालं भाववरं,
भज नंदकुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥४॥



इन्दीवरभासं प्रकट्सुरासं कुसुमविकासं वंशीधरं,
हृतमन्मथमानं रूपनिधानं कृतकलिगानं चित्तहरं ।
वल्लभ मृदुहासं कुंजनिवासं विविधविलासं केलिकरं,
भज नंदकुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥५॥



अति परं प्रवीणं पालितदीनं भक्ताधीनं कर्मकरं,
मोहन मतिधीरं फणिबलवीरं हतपरवीरं तरलतरं ।
वल्लभ व्रजरमणं वारिजवदनं जलधरशमनं शैलधरं,
भज नंदकुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥६॥



जलधरद्युतिअंगं ललितत्रिभंगं बहुकृतिरंगं रसिकवरं,
गोकुलपरिवारं मदनाकारं कुंजविहारं गूढनरम ।
वल्लभ व्रजचन्दं सुभग सुचन्दं कृताअनन्दं भ्रांतिहरं,
भज नंदकुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥७॥



वंदित युग चरणं पावन करणं जगत उद्धरणं विमलधरं,
कालिय शिर गमनं कृत फणिनमनं घातित यमनं मृदुलतरं ।
वल्लभ दुःखहरणं निरमलचरणं अशरण शरणं मुक्तिकरं,
भज नंदकुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥८॥



॥ इति श्रीमद वल्लभाचार्य विरचितं नन्दकुमाराष्टकं समाप्तं ॥

जै श्री राधे कृष्ण
🌺





श्री कृष्णायसमर्पणं

post written by:

Related Posts

0 Comments: